Type Here to Get Search Results !

Class 9 Sanskrit Chapter 9: सिकतासेतुः Questions & Answers

Class 9 Sanskrit Chapter 9: सिकतासेतुः Questions & Answers


सिकतासेतुः


अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 67-69)

प्रश्न: 1.
एकपदेन उत्तरं लिखत

(क) कः बाल्ये विद्यां न अधीतवान्?
(ख) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
(ग) मकरालये कः शिलाभिः सेतुं बबन्ध?
(घ) मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?
(ङ) पुरुषः सिकताभिः किं करोति?

उत्तर:
(क) तपोदत्तः
(ख) तपसा/तपस्यया/तपोभिः
(ग) श्रीरामः
(घ) गृहम्
(ङ) सेतुनिर्माणम्


प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?
(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
(ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्?
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गत:?

उत्तर:
(क) अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैः च गर्हितः अभवत्।
(ख) नरः केवलं परिधानैः अलङ्कारैः च भूषितः अपि विद्यां विना कुत्रापि न शोभते इति विचार्य सर्वैः निन्दितः अनधीतः तपोदत्तः विद्याम् अवाप्तुम् प्रवृतः अभवत्।
(ग) सिकताभिः सेतुनिर्माण-प्रयासं कुर्वाणं पुरुषं दृष्ट्वा तपोदत्तः अहसत्।
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः सिकताभिः एव सेतुनिर्माण-प्रयासः कथितः।
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलम् गतः।


प्रश्न: 3.
भिन्नवर्गीयं पदं चिनुत यथा- अधिरोढुम्, गन्तुम्, सेतुम्, निर्मातुम्।

(क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य।
(ख) विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि।
(ग) तपोभिः, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः।

उत्तर:
(क) चिन्तय
(ख) करिष्यामि
(ग) दुर्बुद्धिः


प्रश्न: 4.
(क) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

(i) अलमलं तव श्रमेण।
(ii) न अहं सोपानमा रट्टमधिरोढुं विश्वसिमि।
(iii) चिन्तितं भवता न वा।
(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
(v) भवद्भिः उन्मीलितं मे नयनयुगलम्।

उत्तर:
(i) पुरुषाय
(ii) पुरुषाय
(iii) पुरुषाय
(iv) तपोदत्ताय
(v) तपोदत्ताय


(ख) अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि

(i) हा विधे! किमिदं मया कृतम्?
(ii) भो महाशय! किमिदं विधीयते।
(iii) भोस्तपस्विन्! कथं माम् अवरोधं करोषि।
(iv) सिकताः जलप्रवाहे स्थास्यन्ति किम्?
(v) नाहं जाने कोऽस्ति भवान्?

उत्तर:
कः — कम्
(i) तपोदत्तः — विधिम्
(ii) तपोदत्तः — पुरुषम्
(iii) पुरुषः — तपोदत्तम्
(iv) तपोदत्तः — पुरुषम्
(v) तपोदत्तः — पुरुषम्


प्रश्नः 5.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत

(क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
(ख) तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।
(ग) पुरुषः नद्यां सिकताभिः. सेतुं निर्मातुं प्रयतते।
(घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।
(ङ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
(च) गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।
प्रश्ना:-
(क) तपोदत्तः कया विद्यामवाप्तुं प्रवृत्तोऽस्ति?
(ख) कः कुटुम्बिभिः मित्रैः गर्हितः अभवत्?
(ग) पुरुषः कुत्र/कस्याम् सिकताभिः सेतुं निर्मातुं प्रयतते?
(घ) तपोदत्तः किम् विनैव वैदुष्यमवाप्तुम् अभिलषति?
(ङ) तपोदत्तः किमर्थम् गुरुकुलम् अगच्छत्?
(च) कुत्र गत्वैव विद्याभ्यासः करणीयः?


प्रश्नः 6.
उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत

विग्रहपदानि — समस्तपदानि
यथा- संकल्पस्य सातत्येन — संकल्पसातत्येन
(क) अक्षराणां ज्ञानम्
(ख) सिकतायाः सेतुः
(ग) पितुः चरणैः
(घ) गुरोः गृहम्
(ङ) विद्यायाः अभ्यासः

उत्तर:
विग्रहपदानि — समस्तपदानि
(क) अक्षराणां ज्ञानम् — अक्षरज्ञानम्
(ख) सिकतायाः सेतुः — सिकतासेतुः
(ग) पितुः चरणैः — पितृचरणैः
(घ) गुरोः गृहम् — गुरुगृहम्
(ङ) विद्यायाः अभ्यासः — विद्याभ्यासः


(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत

समस्तपदानि — विग्रहः
यथा- नयनयुगलम् — नयनयोः युगलम्
(क) जलप्रवाहे — ………….
(ख) तपश्चर्यया — ………….
(ग) जलोच्छलनध्वनिः — ………….
(घ) सेतुनिर्माणप्रयासः — ………….

उत्तर:
समस्तपदानि — विग्रहः
(क) जलप्रवाहे — जलस्य प्रवाहे
(ख) तपश्चर्यया — तपसः चर्यया
(ग) जलोच्छलनध्वनिः — जलस्य उच्छलनध्वनिः
(घ) सेतुनिर्माणप्रयासः — सेतोः निर्माणप्रयासः


प्रश्न: 7.
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतनं वाक्यद्वयं रचयत

(क) यथा- अलं चिन्तया। (‘अलम्’ योगे तृतीया)
(i) …………. ………… …………… ………. (भय)
(ii) …………. ………… …………… ………. (कोलाहल)

उत्तर:
(i) अलम् भयेन
(ii) अलं कोलाहलेन


(ख) यथा- माम् अनु स गच्छति। (‘अनु’ योगे द्वितीया)

(i) …………. ………… …………… ………. (गृह)
(ii) …………. ………… …………… ………. (पर्वत)

उत्तर:
(i) गृहम् अनु उद्यानम् अस्ति।
(ii) पर्वतम् अनु ग्रामः अस्ति।


(ग) यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। (‘विना’ योगे द्वितीया)

(i) …………. ………… …………… ………. (परिश्रम)
(ii) …………. ………… …………… ………. (अभ्यास)

उत्तर:
(i) परिश्रमम् विना कार्यं न सिद्धयति।
(ii) अभ्यासं विना वैराग्यम् न प्राप्नोति।


(घ) यथा- सन्ध्यां यावत् गृहमुपैति। (‘यावत्’ योगे द्वितीया)

(i) …………. ………… …………… ………. (मास)
(ii) …………. ………… …………… ………. (वर्ष)

उत्तर:
(i) मासं यावत् वर्षा न भवति।
(ii) वर्षं यावत् अतिथिः न गच्छति।

Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः Additional Important Questions and Answers


पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनम्

अधोलिखितनाटयांशान् श्लोकान् च पठित्वा प्रश्नान् उत्तरत

(क) (ततः प्रविशति तपस्यारतः तपोदत्तः)
तपोदत्तः – अहमस्मि तपोदत्तः। बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि।
तस्मात् सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्। (ऊर्ध्वं निःश्वस्य)
हा विधे! किम् इदं मया कृतम्? कीदृशी दुर्बुद्धि आसीत् तदा। एतदपि न चिन्तितं यत्


प्रश्ना :
I. एकपदेन उत्तरत

(i) तपोदत्तः कदा विद्यां न अधीतवान्?
(ii) कीदृशः तपोदत्तः प्रविशति?

उत्तर:
(i) बाल्ये
(ii) तपस्यारतः


II. पूर्णवाक्येन उत्तरत
तपोदत्तः कैः गर्हितः अभवत्?

उत्तर:
सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैः च तपोदत्तः गर्हितः अभवत्।


III. निर्देशानुसारम् शुद्धम् उत्तरम् विकल्पेभ्यो चित्वा लिखत
(i) ‘गर्हितः’ इति पदस्य कः अर्थः?

(क) निन्दितः
(ख) गृहीतः
(ग) प्रसीदति
(घ) गच्छति

उत्तर:
(क) निन्दितः


(ii) ‘अहम् अस्मि तपोदत्तः’ अत्र ‘अहम्’ सर्वनामपदं कस्मै प्रयुक्तम्?

(क) तपोदत्तः
(ख) तपोदत्ताय
(ग) तपोदत्तम्
(घ) तपोदत्तेन

उत्तर:
(ख) तपोदत्ताय


(iii) ‘तपोदत्तः’ इति पदस्य विशेषणपदं किम्?

(क) अहम्
(ख) अस्मि
(ग) तपस्यारतः
(घ) रतः

उत्तर:
(ग) तपस्यारतः


(iv) ‘प्रशंसितः’ इति पदस्य विलोमपदं किम्?

(क) गर्हितः
(ख) गर्हितोऽभवम्
(ग) कीदृशी
(घ) तस्मात्

उत्तर:
(क) गर्हितः

(ख) (किञ्चिद् विमृश्य)
भवतु, किम् एतेन? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।
(जलोच्छलनध्वनिः श्रूयते)
अये कुतोऽयं कल्लोलोच्छलनध्वनिः? महामत्स्यो मकरो वा भवेत्। पश्यामि तावत्।
(पुरुषमेकं सिकताभिः सेतुनिर्माण-प्रयासं कुर्वाणं दृष्ट्वा सहासम्)

प्रश्नाः
I. एकपदेन उत्तरत

(i) कः जलोच्छलनध्वनिः श्रूयते?
(ii) दिवसे मार्गभ्रान्तः कदा गृहम् उपैति?

उत्तर:
(i) तपोदत्तः
(ii) सन्ध्याम्


II. पूर्णवाक्येन उत्तरत
तपोदत्तः किमर्थम् अहसत्?

उत्तर:
एकं पुरुषं सिकताभिः सेतुनिर्माणं-प्रयासं कुर्वाणं दृष्ट्वा तपोदत्तः अहसत्।


III. निर्देशानुसारं शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘उपैति’ इति पदस्य पर्यायपदम् किम्?

(क) प्राप्नोति
(ख) उत्पतति
(ग) आगच्छति
(घ) भवति

उत्तर:
(क) प्राप्नोति


(ii) ‘पुरुष’ इति पदस्य विशेषणपदं किम्?

(क) पुरुषमेकं
(ख) एकम्
(ग) प्रयास
(घ) निर्माणम्

उत्तर:
(ख) एकम्


(iii) ‘निवृत्तः’ इति पदस्य विलोमपदं किम्?

(क) प्रवृतः
(ख) भ्रान्तः
(ग) कुतः
(घ) उपैति।

उत्तर:
(क) प्रवृतः


(iv) ‘उपैति’ इति क्रियापदस्य कर्तृपदं किम्?

(क) दिवसे
(ख) सन्ध्यां
(ग) मार्गभ्रान्तः
(घ) गृहम्

उत्तर:
(ग) मार्गभ्रान्तः

(ग) पुरुषः भोस्तपस्विन्! कथं माम् अवरोधं करोषि। प्रयत्नेन किं न सिद्धं भवति? कावश्यकता शिलानाम्? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया।
तपोदत्तः – आश्चर्यम् किम् सिकताभिरेव सेतुं करिष्यसि? सिकता जलप्रवाहे स्थास्यन्ति किम्? भवता चिन्तितं न वा?
पुरुषः – (सोत्प्रासम्) चिन्तितं चिन्तितम्। सम्यक् चिन्तितम्। नाहं सोपानसहायतया अधिरोढुं विश्वसिमि। समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि।
तपोदत्तः – (सव्यङ्ग्यम्) साधु साधु! आञ्जनेयमप्यतिक्रामसि!
पुरुषः – (सविमर्शम्) कोऽत्र सन्देहः? किञ्च,

प्रश्नाः
I. एकपदेन उत्तरत

(i) पुरुषः काभिः एव सेतोः निर्माणं करोति?
(ii) केन सर्वं सिद्धम् भवति?

उत्तर:
(i) सिकताभिः
(ii) प्रयत्नेन


II. पूर्णवाक्येन उत्तरत
पुरुषः कस्मिन् न विश्वसिति?

उत्तर:
पुरुषः सोपानमार्गः अट्टम् अधिरोढुं न विश्वसिति।


III. निर्देशानुसारं शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘न अहम् सोपानमार्ग :….. अस्मिन् वाक्ये ‘अहम्’ इति कर्तृपदस्य क्रियापदम् किम्?

(क) विश्वसिमि
(ख) अस्मि
(ग) करिष्यसि
(घ) चिन्तितम्

उत्तर:
(क) विश्वसिमि


(ii) ‘आञ्जनेयम्’ इति पदस्य समानार्थकपदं किम्?

(क) रामम्
(ख) तपोदत्तम्
(ग) इन्द्रम्
(घ) हनुमन्तम्

उत्तर:
(घ) हनुमन्तम्


(iii) ‘भवता चिन्तितं’ अत्र ‘भवता’ इति सर्वनामपदं कस्मै प्रयुक्तम्?

(क) तपोदत्तः
(ख) तपोदत्ताय
(ग) पुरुषः
(घ) पुरुषाय

उत्तर:
(घ) पुरुषाय


(iv) ‘अनुचितम्’ इति पदस्य विपरीतार्थकं पदं किम्?

(क) सम्यक्
(ख) चिन्तितं
(ग) क्षमः
(घ) संकल्पं

उत्तर:
(क) सम्यक्

(घ) तपोदत्तः – (सवैलक्ष्यम् आत्मगतम्)
अये! मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति! नूनं सत्यमत्र पश्यामि। अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि! तदियं भगवत्याः शारदाया अवमानना। गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः। पुरुषार्थैरेव लक्ष्यं प्राप्यते।
(प्रकाशम्)
भो नरोत्तम! नाऽहं जाने यत् कोऽस्ति भवान्। परन्तु भवद्भिः उन्मीलितं मे नयनयुगलम्। तपोमात्रेण विद्यामवाप्तुं प्रयतमानः अहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि। तदिदानी विद्याध्ययनाय गुरुकुलमेव गच्छामि।
(सप्रणामं गच्छति)


प्रश्ना :
I. एकपदेन उत्तरत

(i) पुरुषार्थैः किम् प्राप्यते?
(ii) भद्रपुरुषः कम् अधिक्षिपति?

उत्तर:
(i) लक्ष्यम्
(ii) तपोदत्तम्


II. पूर्णवाक्येन उत्तरत तपोदत्तः तं पुरुष किम् कथयति?

उत्तर:
तपोदत्तः तं पुरुषं कथयति, “भवद्भिः उन्मीलितं मे नयनयुगलम्। तपोमात्रेण विद्याम् अवाप्तुम् प्रयतमानः अहम् अपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि। तदिदानी विद्याध्ययनाय गुरुकुलम् एव गच्छामि।”


III. निर्देशानुसारम् शुद्धम् उत्तरम् विकल्पेभ्यो चित्वा लिखत
(i) ‘सलज्जम्’ इति अर्थे किम् पदम् प्रयुक्तम्?

(क) सवैलक्ष्यम्
(ख) विनैव
(ग) तदियं
(घ) अवमानना

उत्तर:
(क) सवैलक्ष्यम्


(ii) ‘न अहम् जाने……. अत्र ‘जाने’ इति क्रियापदस्य कर्तृपदं किम्?

(क) भवान्
(ख) अहम्
(ग) यत्
(घ) नरोत्तम

उत्तर:
(ख) अहम्


(iii) ‘मया’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?

(क) तपोदत्तस्य
(ख) तपोदत्तः
(ग) तपोदत्ताय
(घ) तपोदत्तम्

उत्तर:
(क) तपोदत्तस्य


(iv) ‘प्रकाशम्’ इति पदस्य विलोमपदं किम्?

(क) लक्ष्यम्
(ख) आत्मगतम्
(ग) उद्दिश्य
(घ) सत्यमत्र

उत्तर:
(ख) आत्मगतम्


II. प्रश्ननिर्माणम्
अधोलिखितकथनेषु रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत उत्तराणि

(i) तपोदत्तः विद्याध्ययनाय गुरुकुलं गच्छति।
(ii) पुरुषः सिकताभिः सेतुनिर्माणं करोति।
(iii) गुरुगृहं गत्वा विद्याभ्यासः करणीयः।
(iv) जगति मूर्खाणाम् अभावः न अस्ति।
(v) तपोदत्तः बाल्ये विद्यां न अधीतवान्।
(vi) तपोदत्तः तपश्चर्यया विद्याम् अवाप्तुं प्रवृत्तः अभवत्।
(vii) पुरुषः नद्यां सिकताभिः सेतुनिर्माणं कर्तुम् प्रयतते।
(viii) इयं शारदायाः अवमानना अस्ति।
प्रश्ना :
(i) तपोदत्तः किमर्थम् गुरुकुलं गच्छति?
(ii) कः सिकताभिः सेतुनिर्माणं करोति?
(iii) कुत्र गत्वा विद्याभ्यासः करणीयः?
(iv) कुत्र मूर्खाणाम् अभावः न अस्ति?
(v) तपोदत्तः कदा विद्यां अधीतवान्?
(vi) तपोदत्तः तपश्चर्यया काम् अवाप्तुं प्रवृत्त अभवत्?
(vii) पुरुषः नद्यां काभिः सेतुनिर्माणं कर्तुम् प्रयतते?
(viii) इयं कस्याः अवमानना अस्ति?


III. ‘क’ अन्वयः 
निम्नलिखितश्लोकानाम् अन्वयेषु समुचितपदानि चित्वा पूरयत

(क) परिधानैरलङ्कारभूषितोऽपि न शोभते।
नरो निर्मणिभोगीव सभायां यदि वा गृहे।।

अन्वयः- यदि नरः (i)………………… अलंकारैः (ii)………………… अपि निर्मणिभोगी (iii)…………….. सभायां (iv)… वा न शोभते।

उत्तर:
यदि नरः (i) परिधानैः अलंकारैः (ii) भूषितः अपि निर्मणिभोगी (iii) इव सभायां (iv) गृहे वा न शोभते।


(ख) रामो बबन्ध यं सेतु शिलाभिर्मकरालये।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्।।

अन्वयः- रामः मकरालये (i)………….. यं सेतुं (ii)………….. त्वम् बालुभिः (iii) ………… विदधद् (iv)…………….. यासि।

उत्तर:
रामः मकरालये (i) शिलाभिः यं सेतुं (ii) बबन्ध त्वम् बालुभिः (iii) तं विदधद् (iv) अतिरामताम् यासि।


(ग) विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम।।

अन्वयः- यदि लिपि (i)……………… विना केवलम् (ii) ………….. एव ते वशे विद्या (iii) …………..तथा मम (iv)…. सेतुः।

उत्तर:
यदि लिपि (i) अक्षरज्ञानम् विना केवलम् (ii) तपोभिः एव ते वशे विद्या (iii) स्युः तथा मम (iv) एषः सेतुः।


III. ‘ख’ भावार्थः
अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

(क) परिधानैरलङ्कारैर्भूषितोऽपि न शोभते।
नरो निर्मणिभोगीव सभायां यदि वा गृहे॥

भावार्थ:-मानवः वस्त्रैः (i) ……. च भूषितः अपि (ii)………….. इव सभायां गृहे वा न शोभते तथैव (iii) ……..विना नरः (iv) ……. न शोभते।
मञ्जूषा- विद्या, निर्मणिभोगी, आभूषणैः, कुत्रापि

उत्तर:
(क) मानवः वस्त्रैः आभूषणैः च भूषितः अपि निर्मणिभोगी इव सभायां गृहे वा न शोभते नूनं विद्यां विना नरः कुत्रापि न शोभते।


(ख) रामो बबन्ध यं सेतुं शिलाभिर्मकरालये।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्।।

भावार्थ:-विप्ररूपे इन्द्रस्य (i)……………. सेतुनिर्माणप्रयासं दृष्ट्वा तपोदत्तः तम् (ii)……….. कथयति यत् पुरा समुद्रे (iii) …….. प्रस्तरैः सेतुनिर्माणम् अकरोत्। अधुना त्वम् (iv) …….. निर्मातुं वाञ्छसि।
मञ्जूषा- सेतुम्, श्रीरामेण, उपहासपूर्वकम्, सिकताभिः

उत्तर:
(ख) विप्ररूपे इन्द्रस्य सिकताभिः सेतुनिर्माणप्रयासं दृष्ट्वा तपोदत्तः तम् उपहासपूर्वकम् कथयति पुरा समुद्रे श्रीरामेण प्रस्तरैः सेतुनिर्माणम् अकरोत्। अधुना त्वम् सिकताभिः सेतुम् निर्मातुं वाञ्छसि।


(ग) विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम॥

भावार्थ:-तपोमात्रेण विद्याम् अवाप्तुम् (i)…………………. तपोदत्तम् दृष्ट्वा पुरुषः कथयति यत् लिपि-अक्षरज्ञानं विना केवलं (ii)………… एव कोऽपि विद्वान् भवेत्। तथैव (iii)………… सेतुनिर्माणप्रयासम् अपि (iv)………………… भविष्यति।
मञ्जूषा- तपश्चर्यया, प्रयतमानम्, सिकताभिः, सफलं

उत्तर:
(ग) तपोमात्रेण विद्याम् अवाप्तुम् प्रयतमानम् तपोदत्तम् दृष्ट्वा पुरुषः कथयति यत् लिपि-अक्षरज्ञानं विना केवलं तपश्चर्यया एव कोऽपि विद्वान् भवेत्। तथैव सिकताभिः सेतुनिर्माणप्रयासम् अपि सफलं भविष्यति।


IV. कथाक्रमसंयोजनम्
घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) एषः इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।
(ii) बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि।
(iii) सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढ़तया।
(iv) तीव्रप्रवाहायां नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते।
(v) तपोमात्रेण विद्यामवाप्तुं प्रयतमानोऽहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि।
(vi) मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति।
(vii) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
(vii) अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि।

उत्तर:
(i) बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि।
(ii) एषः इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।
(iii) तीव्रप्रवाहायां नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते।
(iv) सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढ़तया।
(v) मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति।
(vi) अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि।
(vii) तपोमात्रेण विद्यामवाप्तुं प्रयतमानोऽहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि।
(viii) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।


V. प्रसङ्गानुकूलम् उचितार्थम्

I. अधोलिखित वाक्येषु रेखांकितपदानाम् कृते उचितम् अर्थम् चित्वा लिखत
(i) तपोदत्तः सर्वैः कुटुम्बिभिः गर्हितः अभवत्।

(क) निन्दितः
(ख) गृहीतः
(ग) गच्छतः
(घ) गृहीतं

उत्तर:
(क) निन्दितः


(ii) जगति मूर्खाणाम् अभावः न अस्ति।

(क) संसारे
(ख) विश्वः
(ग) जागृतः
(घ) जयति

उत्तर:
(क) संसारे


(iii) आञ्जनेयम् अतिक्रामसि।

(क) अंजनि
(ख) हनुमन्तम्
(ग) हनुमान्
(घ) अञ्जनेः

उत्तर:
(ख) हनुमन्तम्


(iv) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यम् अवाप्तुम् अभिलषति।

(क) विदुषी
(ख) विद्वान्
(ग) पाण्डित्यम्
(घ) द्वेषरहितं

उत्तर:
(ग) पाण्डित्यम्

VI. पर्यायपदानि/विलोमपदानि

प्रश्न: 1.
अधोलिखितपदानां पर्यायपदानि लिखत

मित्रम्, गृहे, परिधानैः, श्रमेण

उत्तर:
मित्रम् – सखा, सहचरः, सुहृदः।
गृहे – सदने, निकेतने, आलये। परिधानैः
वस्त्रैः, अम्बरैः, वसनैः। श्रमेण
परिश्रमेण, उधमेन, उद्योगेन।


प्रश्न: 2.
अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

सुबुद्धिः, निर्लज्जम्, मूर्खत्वम्, नरोत्तमः, गर्हितः

पदानि — विलोमशब्दाः
(क) सवैलक्ष्यम् — ………………
(ख) वैदुष्यम् — ………………
(ग) दुर्बुद्धिः — ………………
(घ) प्रशंसितः — ………………
(ङ) नराधमः — ………………

उत्तर:
पदानि — विलोमशब्दाः
(क) सवैलक्ष्यम् — निर्लज्जम्
(ख) वैदुष्यम् — मूर्खत्वम्
(ग) दुर्बुद्धिः — सुबुद्धिः
(घ) प्रशंसितः — गर्हितः
(ङ) नराधमः — नरोत्तमः

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us